|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.121. अध्यायः 121
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
फेनपस्य गोभिः कदाचन गोलोकादेत्य गिरिह्रदे स्त्रीरूपधारणेन विहरमाणानां गवामवलोकनम्॥ 1 ॥ फेनपस्य गोभिः स्वेषां गोलोकप्राप्त्युपायं पृष्टाभिस्ताभिस्ताः प्रति रन्तिदेवस्य सत्रे आत्मनां पशुत्वोपकल्पनस्य तदुपायत्वोक्तिः॥ 2 ॥ फेनपस्य स्वेष्वतिवत्सलतया यागीयपशुत्वे तदभ्यनुज्ञानस्य दुःसम्पादतां चिन्तयन्तीषु तासु कपिलाभिस्ताभ्यः स्वेषामेव गोषु श्रैष्ठ्यप्राप्तिरूपवराधिगमेन पेनपवधप्रतिज्ञानम्॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
कदाचित्कामरूपिण्यो गावः स्त्रीवेषमाश्रिताः।
ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः॥? 13-121-1(86132)
ददृशुस्तस्य गावो वै विस्मयोत्फुल्ललोचनाः।
ऊचुश्च का यूयमिति स्त्रियो मानुषया गिरा॥ 13-121-2(86133)
स्त्रिय ऊचुः। 13-121-3x(7136)
गाव एव वयं सर्वकर्मभिः शोभनैर्युताः।
सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामेहे। 13-121-3(86134)
गाव ऊचुः। 13-121-4x(7137)
गवां गावः परं दैवं गवां गावः परा गतिः।
कथयध्वमिहास्माकं केन वः सुकृतां गतिः॥ 13-121-4(86135)
स्त्रिय ऊचुः। 13-121-5x(7138)
अस्माकं हविषा देवा ब्राह्मणास्तर्पितास्तथा।
कव्येन पितरश्चैव हव्येनाग्निश्च तर्पितः॥ 13-121-5(86136)
प्रजया च तथाऽस्माकं कृषिरभ्युद्धृता सदा।
शकटैश्चापि संयुक्ता दशवाहशतेन वै॥ 13-121-6(86137)
तदेतैः सुकृतैः स्फीतैर्वयं याश्चैव नः प्रजाः।
गोलोकमनुसम्प्राप्ता यः परं कामगोचरः॥ 13-121-7(86138)
यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुङ्गवाः।
अधोगामिन्य इत्येव पश्यामो दिव्यचक्षुषा॥ 13-121-8(86139)
गाव ऊचुः। 13-121-9x(7139)
एवं गवां परं दैवं गाव एव परायणम्।
स्वपक्ष्यास्तारणीया वः शरणाय गता वयम्॥ 13-121-9(86140)
किमस्माभिः करणीयं वर्तितव्यं कथञ्चन।
प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः॥ 13-121-10(86141)
स्त्रिय ऊचुः। 13-121-11x(7140)
वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम्।
तत्र तस्य नृपस्याशु पशुत्वमुपगच्छतः॥ 13-121-11(86142)
ततस्तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः।
गोलोकान्प्राप्स्यथ शुभांस्तेन पुण्येन संयुताः॥ 13-121-12(86143)
भीष्म उवाच। 13-121-13x(7141)
एतत्तासां वचः श्रुत्वा गवां संहृष्टमानसाः।
गमनाय मनश्चक्रुरौत्सुक्यं चागमन्परम्॥ 13-121-13(86144)
न हि नो भार्गवो दाता पशुत्वेनोपयोजनम्।
यज्ञस्तस्य नरेन्द्रस्य वर्तते धर्मतस्तथा॥ 13-121-14(86145)
वयं न चाननुज्ञाताः शक्ता गन्तुं कथञ्चन।
अवोचन्नथ तत्रत्या भार्गवो वध्यतामयम्॥ 13-121-15(86146)
एतत्सर्वा रोचयत न हि शक्यमतोऽन्यथा।
लोकान्प्राप्तुं सहास्माभिर्निश्चयः क्रियतामयम्॥ 13-121-16(86147)
न तु तासां समेतानां काचिद्धोरेण चक्षुषा।
शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता॥ 13-121-17(86148)
अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः।
जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः॥ 13-121-18(86149)
रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः।
मेघस्तनितनिर्घोषास्तेजोभिरभिरञ्चिताः॥ 13-121-19(86150)
वयं हि तं वधिष्यामः सुमित्रं नात्रं संशयः।
सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ॥ 13-121-20(86151)
गाव ऊचुः। 13-121-21x(7142)
कपिलाः सर्ववर्णेषु प्रधानत्वमवाप्स्यथ।
गवां शतफला चैकां दत्त्वा फलमवाप्स्यति॥ 13-121-21(86152)
भीष्म उवाच। 13-121-22x(7143)
एतद्गवां वचः श्रुत्वा कपिला हृष्टमानसाः।
चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम्॥' ॥ 13-121-22(86153)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः॥ 121 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-121-2 तस्य फेनपस्य स्त्रियः प्रति॥ 7-121-4 सुकृतां पुण्यकृताम्॥ 7-121-6 शक्ताश्चापि तथा युक्ता इति थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|